चेतोदर्पणमार्जनं भव-महादावाग्नि-निर्वापणम्
श्रेयःकैरवचन्द्रिकावितरणं विद्यावधू-जीवनम् ।
आनंदाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनम्
          सर्वात्मस्नपनं परं विजयते श्रीकृष्ण-संकीर्तनम् ||
१
||
नाम्नामकारि बहुधा निज सर्व शक्तिस्
तत्रार्पिता नियमितः स्मरणे न कालः।
एतादृशी तव कृपा भगवन्ममापि
          दुर्दैवमीदृशमिहाजनि नानुरागः ||
२
||
तृणादपि सुनीचेन
तरोरपि सहिष्णुना ।
अमानिना मानदेन
          कीर्तनीयः सदा हरिः ||
३
||
न धनं न जनं न सुन्दरीं
कवितां वा जगदीश कामये।
मम जन्मनि जन्मनीश्वरे
          भवताद् भक्तिरहैतुकी त्वयि ||
४
||
अयि नन्दतनुज किंकरं
पतितं मां विषमे भवाम्बुधौ।
कृपया तव पादपंकज-
          स्थितधूलिसदृशं विचिन्तय ||
५
||
नयनं गलदश्रुधारया
वदनं गदगदरुद्धया गिरा ।
पुलकैर्निचितं वपुः कदा
          तव नाम-ग्रहणे भविष्यति ||
६
||
युगायितं निमेषेण
चक्षुषा प्रावृषायितम्।
शून्यायितं जगत् सर्वं
          गोविन्द विरहेण मे ||
७
||
आश्लिष्य वा पादरतां पिनष्टु माम्
अदर्शनान्-मर्महतां करोतु वा।
यथा तथा वा विदधातु लम्पटो
          मत्प्राणनाथस्-तु स एव नापरः ||
८
||